|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.223. अध्यायः 223
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरप्रति विस्तरेणाग्नीनां वंशकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-223-0x(2529)(24670)
गुरुभिर्नियमैर्युक्तो भरतो नाम पार्थिव।
अग्निः पुष्टिमग्निमि तुष्टः पुष्टिं प्रयच्छति ॥ 3-223-1(24671)
`सततं भरतश्रेष्ठ पावकोयं महाप्रभः'।
अग्निर्यश्च शिवो नाम शक्तिपूजायनिश्च सः।
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥ 3-223-2(24672)
तपसस्तु फलं दृष्ट्वासंप्रवृत्तं तपोमयम्।
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ॥ 3-223-3(24673)
उष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते।
अग्निश्चापि मनुर्नाम प्राजापत्यं सकारणम् ॥ 3-223-4(24674)
शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः।
आवसथ्यं देविजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥ 3-223-5(24675)
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान्।
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥ 3-223-6(24676)
प्रततोऽग्निर्महाभाग परिश्रान्तो गवांपतिः।
असुराञ्जनयन्धोरान्मत्यांश्चैव पृथिग्विधान् ॥ 3-223-7(24677)
तपसश्च मनुं भानुं चाप्यङ्गिराः सृजत्।
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारघाः ॥ 3-223-8(24678)
भानोर्भार्या महाराज बृहद्भासा तु सोमजा।
षट्पुत्राञ्जनयामास तदा सा कन्यया सह।
भानोराङ्गिरसस्याथ शृणु तस्य प्रजाविधिम् ॥ 3-223-9(24679)
दुर्बलानां तु भूतानामसून्यः संप्रयच्छति।
तमग्निं बलदं प्राहुः प्रथमं भानुजं सुतम् ॥ 3-223-10(24680)
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः।
अग्निः स मन्युमान्नाम द्वितीयो भानुजः सुतः ॥ 3-223-11(24681)
दर्शे च पौर्णमासे च यस्येह हविरुच्यते।
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोङ्गिराः ॥ 3-223-12(24682)
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्।
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥ 3-223-13(24683)
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः।
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥ 3-223-14(24684)
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा।
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ॥ 3-223-15(24685)
पूज्यते हविषा योऽग्रे चातुर्मास्येषु पावकः।
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥ 3-223-16(24686)
अस्य लोकस्य सर्वस्य यः प्रभुः परिषठ्यते।
सोऽग्निर्विश्वपतिर्नाम द्वितीयस्तापसः सुतः ॥ 3-223-17(24687)
कन्या या हरिणी नाम हिरण्यकशिपोः सुताः। 3-223-18(24688)
कर्मणाऽसौ बभौ भार्या स वह्निः स प्रजापतिः।
प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम्।
तस्य सन्निहितो नाम शब्दरूपस् साधनः ॥ 3-223-19(24689)
शुक्लं कृष्णं वपुर्देवो यो बिभर्ति हुताशनः।
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तुसः ॥ 3-223-20(24690)
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा।
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ॥ 3-223-21(24691)
योऽन्तर्यच्छति भूतानि येन चेष्टन्ति नित्यदा।
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥ 3-223-22(24692)
इमामन्यान्समसृजत्पावकान्प्रथितौजसः।
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्वणान् ॥ 3-223-23(24693)
संस्पृशेयुर्यदाऽन्योन्यं कथंचिद्वायुनाऽग्नयः।
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥ 3-223-24(24694)
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल।
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥ 3-223-25(24695)
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना।
इष्टरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥ 3-223-26(24696)
अग्निं रजस्वला वै स्त्री संस्पृशेदाग्निहौत्रिकम्।
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये ॥ 3-223-27(24697)
मृतः श्रूयेत यो जीवन्परासुरशुचिर्यथा।
इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये ॥ 3-223-28(24698)
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः।
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ॥ 3-223-29(24699)
दर्शश्च पौर्णमासश्च यस् तिष्ठेत्प्रतिष्ठितम्।
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥ 3-223-30(24700)
सूतिकाग्निर्यदा चाग्निं संस्पृशेदाग्निहौत्रिकम्।
इष्टिरष्टाकपालेन कार्यां चाग्निमतेऽग्नये ॥ 3-223-31(24701)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥ 223 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-223-9 भानोर्भार्या सुप्रजा तु बृहद्भासा तु मूर्यजा इति झ. पाठः ॥ 3-223-14 भानोरेवान्वयस्तुभः इति झ. पाठः ॥ 3-223-18 कन्या सा रोहिणी इति झ. पाठः ॥ 3-223-20 शुक्ककृष्णगतिर्देवो यो बिभर्ति हुताशनं इति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|